News & Updates 

+91 83491-59668

Type Here to Get Search Results !

श्रीमन्महागणाधिपतये नमः संकल्प :-

 श्रीमन्महागणाधिपतये नमः संकल्प

 यजमानस्य हस्ते जलाक्षत गन्धं पुष्पं पूगीफलं द्रव्यं चादाय संकल्पं कुर्यात् -
 
ॐ तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च |
योगेश्च करणश्चैव सर्वं विष्णुमयं जगत् ||

संकल्प :- ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्त्त मानस्य अद्य श्रीब्रह्मणो द्वितीये परार्द्धे श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे भारतवर्षे भरतखण्डे जम्बूद्वीपे आर्यावर्तान्तर्गत ब्रह्मावर्तैकदेशे मध्यदेशे पुण्यप्रदेशे गंगायमुनयोः पश्चिमदेग्भागे क्षिप्रायाः दक्षिणतटे नर्मदाया उत्तरेतीरे मालवक्षेत्रे ओंकारमहाकालयोः मध्ये इंदौर महानगरे .......... क्षेत्रे देवद्विजगवां चरण सन्निधावस्मिन् वर्तमाने .......... द्विसहस्र विक्रमाब्दे बौद्धावतारे प्रभवादि षष्टि संवत्सराणां मध्ये .......... नाम संवत्सरे सूर्य .......... यायने .......... र्तौ महामांगल्यप्रदे मासानाम् उत्तमे .......... मासे .......... पक्षे .......... तिथौ .......... वासरे .......... नक्षत्रे .......... राशिस्थिते चन्द्रे .......... राशिस्थिते श्रीसूर्ये .......... राशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं गुण विशेषेण विशिष्टायां शुभपुण्यतिथौ .......... गोत्रोत्पन्नोऽहं .......... शर्मा / वर्मा / गुप्तोऽहम् आत्मनः इष्टमित्र बान्धवाः सहितोऽहं सकलशास्त्र श्रुतिस्मृति पुराणोक्त फलप्राप्त्यर्थम् एश्वर्याभिवृद्धयर्थम् अप्राप्त लक्ष्मी प्राप्त्यर्थं प्राप्त लक्ष्म्याः चिरकाल संरक्षणार्थं सकल मन ईप्सित कामना संसिद्ध्यर्थं लोके सभायां राजद्वारे व्यापारे वा सर्वत्र यशोविजयलाभादि प्राप्त्यर्थम् इह जन्मनि जन्मान्तरे वा सकल दुरितोपशमनार्थं मम सभार्यस्य सपुत्रस्य सबान्धवस्य अखिल कुटुम्ब सहितस्य सपशोः समस्त भयव्याधिजरा पीड़ा मृत्यु परिहार द्वारा आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं मम जन्मराशेरखिल कुटुम्बस्य वा जन्मराशेः सकाशाद्ये केचिद् विरुद्ध चतुर्थाष्टम द्वादश स्थानस्थित क्रूरग्रहहास्तैः सूचितं सूचयिष्यमाणं च यत्सर्वारिष्ट तद्विनाश द्वारा एकादशस्थान स्थित वच्छुभ फलप्राप्त्यर्थं पुत्रपौत्रादि सन्ततेरविच्छिन्न वृद्ध्यर्थम् आदित्यादि नवग्रहानुकूलता सिद्ध्यर्थम् इन्द्रादिदशदिक्पाल प्रसन्नता सिद्ध्यर्थम् आधिदैविक आदिभौतिक आध्यात्मिक त्रिविध तापोपशमनार्थं धर्मार्थकाममोक्ष फलावाप्त्यर्थं च दुर्गा देवी प्रीत्यर्थं यथाज्ञानेन यथामिलितोपचार द्रव्यैः ध्यानावाहनादि षोडशोपचारैः अन्योपचारैश्च श्री दुर्गा देव्याः पूजनमहं करिष्ये |
तदङ्गत्वेन स्वस्तिपुण्याहवाचनं मातृकापूजनं वसोर्द्धारापूजनं आयुष्यमंत्रजपं साङ्कल्पिकेन विधिना नान्दीश्राद्धमाचार्यादि वरणं च करिष्ये | 

तत्रादौ निर्विघ्नता सिद्धयर्थं गणेशाम्बिकयोः पूजनं कर्मांग कलशादि पूजनं च करिष्ये |


कलशार्चनम् :- स्ववामभागे अक्षतपुञ्जोपरि जलपूरित कलशं संस्थाप्य तत्र वरुणावाहनम् -

ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः |
अहेडमानो वारुणे हवोद्ध्युरुश गुं समानऽआयुः प्रमोषीः ||

ॐ भूर्भुवःस्वः अस्मिन् कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिम् आवाहयामि, स्थापयामि, पूजयामि |

   ॐ गंगे च यमुने चैव गोदावरि सरस्वति |
नर्मदे सिन्धु काबेरि जलेऽस्मिन् संनिधिं कुरु ||

कलश मध्ये अपाम्पतये वरुणाय नमः, वरुणं संम्पूज्य-गन्धाक्षतपुष्पाणि समर्पयामि | ॐ वं वरुणाय नमः | इत्यात्मानं पूजा समग्रीं च सम्प्रोक्ष्य |

ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः |
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ||

दीपकपूजनम् :- घृतदीपं प्रज्वाल्य वायुरहित स्थले निधाय -

    ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा |
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ||
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ||

ॐ भूर्भुवःस्वः दीपस्थदेवतायै नमः आवाहयामि, सर्वोपचारार्थे, गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि |

भो दीपदेव रूपस्त्वं कर्मसाक्षी ह्यविघ्न कृत |
यावत्पूजा समाप्तिःस्यात् तावदत्र स्थिरो भव ||

घण्टार्चनम् :- 
ॐ आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् | 
घण्टानादं प्रकुर्वीत पश्चाद् घण्टां प्रपूजयेत् ||

ॐ भूर्भुवःस्वः घण्टास्थाय गरुडायनमः आवाहयामि, सर्वोपचारार्थे, गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि |

शंखपूजनम् :- 
ॐ त्रैलोक्ये यानितीर्थानि वासुदेवस्थ चाज्ञया |
शंखे तिष्ठन्ति विपेन्द्र तस्मात् शंखं प्रपूजयेत् ||

ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि | तन्नः शंखः प्रचोदयात् ||

ॐ भूर्भुवःस्वः शंखस्थदेवतायै नमः आवाहयामि, सर्वोपचारार्थे, गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि |

ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे |
निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ||

सूर्यार्घ्यदानम् :- ताम्रपात्रे गन्धोदक गृहीत्वा -

ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यंच |
हिरण्ण्येन सविता रथेना देवो याति भुवनानि पश्यन् ||

ॐ एहि सूर्य सहस्रांशो तेजो राशे जगत्पते |
अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ||

ॐ भुवन भास्कराय नमः अर्घ्यंदत्तं न मम |

नमस्कारम् :- 
ॐ आदित्यस्य नमस्कारं ये कुर्वन्ति दिने-दिने |
जन्मान्तर सहस्रेषु दारिद्रयं नोपजायते ||

अथ दिग्रक्षणम् :- वाम हस्ते पीतसर्षपान् गृहीत्वा दक्षिण हस्तेन आच्छाद्य अभिमन्त्रयेत् ॐ रक्षोहणं वलगहनं वैष्णवी मिदमहन्तं वलगमुत्किरामि यम्मे निष्टयो यममात्त्यो निचखाने दमहन्तं वलग मुत्किरामि यम्मे सबन्धुर्यम सबन्धुर्निचखाने दमहन्तं वलग मुत्किरामि यम्मे सजातो यम सजातो निचखानोत्त्कृत्त्यांकिरामि ||

पीतसर्षपान् सर्वदिक्षु विकिरेत् - पूर्वे इन्द्राय नमः, आग्नेय्याम् अग्नये नमः, दक्षिणस्यां यमाय नमः, नैऋत्यां निर्ऋतये नमः, पश्चिमे वरुणाय नमः, वायव्यां वायवे नमः, उत्तरे कुबेराय नमः, ईशान्याम् ईश्वराय नमः, ऊर्ध्वे ब्रह्मणे नमः, अधस्तात् नमः, सर्वदिक्षु अनन्ताय त्रिविक्रमाय नमः |

  अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् |
सर्वेषामवरोधेन पूजाकर्म समारभे ||

"देवाः आयान्तु | यातुधाना अपयान्तु | विष्णोदेव यजनं रक्षस्व"
वामपादेन त्रिवारं भूमिं ताड़यित्वा भूतान्युत्सार्य -

भैरवनमस्कार :- 
ॐ तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम |
भैरवाय नमस्तुभ्यमनुज्ञां दातु मर्हसि ||

ॐ भैरवाय नमः सर्वोपचारार्थे, गन्धाक्षत पुष्पाणि समर्पयामि नमस्करोमि |

भूमिपूजनम् :- हस्ते गन्धाक्षतपुष्पाणि गृहीत्वा -

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी | यच्छानःशर्म सप्रथाः ||

ॐ भूर्भुवःस्वः पृथिव्यै नमः सर्वोपचारार्थे, गन्धाक्षत पुष्पाणि समर्पयामि नमस्करोमि |

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता |
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ||

आसनोपरि किञ्चित् जलं संप्रोक्षेत् | 

  
         
          

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.