News & Updates 

+91 83491-59668

Type Here to Get Search Results !

श्री गणेशाम्बिका पूजन

श्री गणेशाम्बिका पूजन 

हस्ते अक्षतान् गृहीत्वा गणेशम्बिकयोः ध्यानमावाहनम् 

ॐ गजाननं भूतगणादि सेवितं कपित्थ जम्बू फल चारुभक्षणम् |
उमा सुतं शोक विनाश कारकं नमामि विघ्नेश्वर पाद पंकजम् ||

ॐ कुन्द-सुन्दर-मन्दहास - विराजिताधर-पल्ल्वां,
इन्दुबिम्ब-निभाग नाम रबिन्द चारु विलोचनाम् |
चन्दनागरु पङ्करूषित तुङ्गपीन पयोधरां,
चन्द्रशेखर वल्लभां प्रणमामि शैलसुतामिमाम् ||

ॐ गणानां त्वा गणपति गुं हवामहे प्रियाणां त्वा प्रियपति गुं हवामहे निधीनां त्वा निधिपति गुं हवामहे वसो मम | आहमजानि गर्ब्भधमात्त्वमजासि गर्ब्भधम् ||

ॐ अम्बेऽम्बिकेऽबालिके न मानयति कश्चन |
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ||

ॐ मनो जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठं यज्ञ गुं समिमं दधातु | विश्वे देवा सऽइह मादयन्तामों३ प्रतिष्ठ ||    

ॐ गणेशाम्बिकाभ्यां नमः, आवाहनार्थे अक्षतान् समर्पयामि, प्रतिष्ठापयामि |
गणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम् |

आसनम् - 
ॐ पुरुषऽएवेद गुं सर्वं यद्भूतं यच्च भाव्यम् |
उतामृतत्त्वस्ये शानो यदन्नेनातिरोहति ||
 गणेशाम्बिकाभ्यां नमः आसनार्थे अक्षतान् समर्पयामि |

पाद्यम् - 
ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः |
पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ||
गणेशाम्बिकाभ्यां नमः पादयोः पाद्यं समर्पयामि |

अर्घ्यम् -
  ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहा भवत्पुनः |
ततो विष्वङ् व्यक्रामत्साशनानशे अभि ||
गणेशाम्बिकाभ्यां नमः हस्तयोरर्घ्यं समर्पयामि |

आचमनीयम् -
ॐ ततो विराडजायत विराजो अधि पूरुषः |
स जातो अत्यरिच्यत पश्चाद्भूमिमथोपुरः ||
गणेशाम्बिकाभ्यां नमः आचमनीयं समर्पयामि |

स्नानम् - 
ॐ तस्माद्यज्ञात्त्सर्वहुतः सम्भृतं पृषदाज्यम् |
पशूँस्ताश्च्चक्रेवायव्या नारण्या ग्राम्याश्च ये ||
गणेशाम्बिकाभ्यां नमः स्नानं समर्पयामि |

पयः स्नानम् - 
   ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः |
पयस्वतीः प्रदिशः सन्तु मह्यम् ||
गणेशाम्बिकाभ्यां नमः पयः स्नानं समर्पयामि |
शुद्धोदकस्नानं समर्पयामि |

दधिस्नानम् - 
ॐ दधिक्क्राव्णोऽअकारिषं जिष्णो रश्श्वस्य वाजिनः |
सुरभि नो मुखा करत्प्रणऽआयू गुं षितारिषत् ||
गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि |
शुद्धोदकस्नानं समर्पयामि |   

घृतस्नानम् - 
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम |
अनुष्वधमा वह मादयस्व स्वाहा कृतं वृषभ वक्षि हव्यम् ||
गणेशाम्बिकाभ्यां नमः घृतस्नानं समर्पयामि |
शुद्धोदकस्नानं समर्पयामि ||

मधुस्नानम् - ॐ मधुवाता ऋतायते मधु क्षरन्ति सिन्धवः | माध्वीर्नः सन्त्वोषधीः | मधु नक्तमुतोषसो मधुमत्पार्थिव गुं रजः | मधुद्यौरस्तु नः पिता || मधुमान्नो वनस्पतिर्मधुमाँ२अस्तु सूर्यः | माध्वीर्गावो भवन्तु नः || गणेशाम्बिकाभ्यां नमः मधुस्नानं समर्पयामि | शुद्धोदकस्नानं समर्पयामि |

शर्करास्नानम् - 
ॐ अपा गुं रसमुद्वयस गुं सूर्ये सन्त गुं समाहितम् |
अपा गुं रसस्ययो रसस्तं वो गृह्णाम्युत्तममुपयाम गृहीतोसीन्द्रायत्वा जुष्टं गृह्णाम्येषते योनिरिन्द्राय त्वा जुष्टतमम् ||
गणेशाम्बिकाभ्यां नमः शर्करास्नानं समर्पयामि |
शुद्धोदकस्नानं समर्पयामि |

पंचामृतस्नानम् - 
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः |
सरस्वती तु पंचधा सो देशेऽभवत्सरित् ||
गणेशाम्बिकाभ्यां नमः पंचामृतस्नानम् समर्पयामि |
शुद्धोदकस्नानं समर्पयामि |

गन्धोदकस्नानम् -
ॐ गन्धर्वस्त्वा विश्वावसुः परिदधातुविश्वस्यारिष्ट्रयै यजमानस्य परिधिरस्यग्निरिडऽईडितः ||
गणेशाम्बिकाभ्यां नमः गन्धोदकस्नानं समर्पयामि |
शुद्धोदकस्नानं समर्पयामि |

उद्वर्तनस्नानम् - 
ॐ अ गुं शुनातेऽअ गुं शुः पृच्यताम्परुषा परुः |
गन्धस्ते सोम मवतु मदाय रसोऽअच्युतः ||
गणेशाम्बिकाभ्यां नमः उद्वर्तनस्नानं समर्पयामि |
शुद्धोदकस्नानं समर्पयामि |

शुद्धोदकस्नानम् - ॐ शुद्धवालः सर्व शुद्धवालो मणिवालस्तऽआश्विनाः श्येतः श्येताक्षो रुणस्ते रुद्द्राय पशुपतये कर्णायामाऽअवलिप्तारौद्द्रा नभोरुपाः पार्ज्जन्याः || गणेशाम्बिकाभ्यां नमः शुद्धोदकस्नानं समर्पयामि |  

गणेशाम्बिकाभ्यां नमः पंचोपचारैः सम्पूज्य - ॐ गन्धं समर्पयामि | ॐ पुष्पं समर्पयामि | ॐ धूपमाघ्रापयामि | ॐ दीपं दर्शयामि | ॐ नैवेद्यं निवेदयामि | ॐ गं गणपतये नमः इति मन्त्रेण सम्प्रोक्ष्य धेनुमुद्रया अमृतीकृत्य ग्रामसुद्राः प्रदर्शयेत् -

     ॐ प्राणाय स्वाहा | ॐ अपानाय स्वाहा | ॐ व्यानाय स्वाहा | ॐ उदानाय स्वाहा | ॐ समानाय स्वाहा | ॐ ब्रह्मणे नमः, मध्ये पानीयं समर्पयामि | उत्तरापोशनं समर्पयामि | हस्त प्रक्षालनं समर्पयामि | मुखं प्रक्षालनं समर्पयामि | करोद्वर्तनार्थे चन्दनं अर्चयामि | मुखवासार्थे पूगीफलं ताम्बूलं च समर्पयामि | पर्णमुद्रा दक्षिणां समर्पयामि | पंचामृत पूजन पूर्वकं नमस्करोमि |

      अनेन यथाशक्त्या ध्यास्नानादि कृतेन गणेशाम्बिके प्रीयेताम् न मम | उत्तरे निर्माल्य विसृज्य हस्तं प्रक्षाल्य पुनर्गन्धादिभिः सम्पूज्य | दुग्धमिश्रित जलधारया गणेशोपरि अभिषेकमारभेत् | धारापात्रं गन्धादिभिः सम्पूज्य |

श्रीगनेशाथर्वशीर्षं श्रीसूक्तं च पाठेन अभिषेकं कुर्यात् -

ॐ लं नमस्ते गणपतये | त्वमेव प्रत्यक्षं तत्त्वमसि | त्वमेव केवलं कर्तासि | त्वमेव केवलं धर्तासि | त्वमेव केवलं हर्तासि | त्वमेव सर्वं खल्विदं ब्रह्मासि | त्वं साक्षादात्मासि नित्यम् ||1|| ऋतं वच्मि | सत्यं वच्मि ||2|| अव त्वं माम् | अव वक्तारम् | अव श्रोतारम् | अव दाताराम् | अव धातारम् | अवानूचानमव शिष्यम् | अव पश्चातात् | अव पुरस्तात् | अवोत्तरात्तात् | अव दक्षिणात्तात् | अव चोर्ध्वात्तात् | अवाधरात्तात् | सर्वतो मां पाहि पाहि समन्तात ||3|| त्वं वाङ्मयस्वं चिन्मयः | तवमानन्दमयस्वं ब्रह्ममयः | त्वं सच्चिदानन्दा द्वितीयोऽसि | त्वं प्रत्यक्षं ब्रह्मासि | त्वं ज्ञानमयो विज्ञानमयोऽसि ||4|| सर्वं जगदिदं त्वत्तो जायते | सर्वं जगदिदं तवत्तस्तिष्ठति | सर्वं जगदिदं त्वायि लयमेष्यति | सर्वं जगदिदं त्वयि प्रत्येति | त्वं भूमि रापोऽनलोऽनिभो नभः | त्वं चत्वारि वाक्पदानि ||5|| त्वं गुणत्रयातीतः | त्वं देहत्रयातीयः | त्वं कालत्रयातीतः | त्वमवस्थात्रयातीतः | त्वं मूलाधारस्थितो नित्यम् | त्वं शक्तित्रयात्मकः | त्वां योगिनो ध्यायन्ति नित्यम् | त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्म भूर्भुवःस्वरोम् ||6|| गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् | अनुस्वारः परतरः | अर्धेन्दुलसितम् | तारेण रुद्धम् | एतत्तव मनुस्वरूपम् | गकारः पूर्वरूपम् | अकारो मध्यमरूपम् | अनुस्वारश्चान्त्यरूपम् | बिन्दुरूत्तररूपम् | नादःसंधानम् | स गुं हितासंधिः सैषा गणेशविद्या | गणक ऋषिः निचृद् गायत्री छन्दः | गणपतिर्देवता | ॐ गँ गणपतये नमः ||7|| एकदन्ताय विद्महे वक्रतुण्डाय धीमहि | तन्नो दन्ती प्रचोदयात् ||8|| एकदन्तं चतुर्हस्तं पाशमं कुश धारिणम् | रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम् | रक्तं लम्बोदरं शूर्प कर्णकं रक्तवाससम् | रक्तगन्धाऽनुलिप्तांगं रक्तपुष्पैः सुपूजितम् | भक्तानुकंपिनं देवं जगत्कारण मच्युतम् | आविर्भूतं च सृष्ट्रयादौ प्रकृतेः पुरूषात्परम् | एवं ध्यायति यो नित्यं स योगी योगिनां वरः ||9|| नमो व्रातपतये | नमो गणपतये | नमः प्रमथपतये | नमस्तेऽस्तु लम्बोदरायैक दन्ताय विघ्न विनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः ||10||             
ॐ ह्रीं हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजातम् |
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ||1||

तां म आ वह जातवेदो लक्ष्मी मन पगामिनीम् |
यस्यां हिरण्यं विन्देयं गामश्वंपुरुषानहम् ||2||

अश्वपूर्वां रथमध्यां हस्ति नाद प्रमोदिनीम् |
श्रियं देवीमुप ह्वये श्रीर्मा देवीजुषताम् ||3||

कांसोस्मितां हिरण्य प्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् |
पद्मेस्थितां पद्म वर्णां तामिहोप ह्वये श्रियम् ||4||

चन्द्रां प्रभासां यशसाज्वलन्तीं श्रियं लोकेदेव जुष्टामुदाराम् |
तां पद्मिनीमीं शरणं प्रपद्ये अलक्ष्मीर्मेनश्यतां त्वां वृणे ||5||

आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः |
तस्यफलानितपसा नुदन्तुमायान्तरायाश्च बाह्याऽअलक्ष्मीः ||6||

उपैतु मां देवसखः कीर्तिश्च मणिना सह |
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ||7||

क्षुत्पिपासा मलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् |
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ||8||

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् |
ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम् ||9||

मनसः काममाकूतिं वाचः सत्यमशीमहि |
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ||10||

कर्दमेन प्रजा भूता मयि सम्भव कर्दम |
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ||11||

आपः सृजन्तु सृग्धानि चिक्लीत वस मे गृहे |
नि च देवीं मातरं श्रियं वासय मे कुले ||12||

आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् |
सूर्यां हिरण्मयीं लक्ष्मीं जात वेदो म आ वह ||13||

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् |
सूर्यां हिरण्मयीं लक्ष्मीं जात वेदो म आ वह ||14||

ताम आवह जातवेदो लक्ष्मीमनपगामिनीम् |
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान् विन्देयं पुरुषानहम् ||15||

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् |
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ||16||

ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् | इष्णन्निषाणामुं म इषाण सर्वलोकं म इषाण || ॐ सर्वेषां वाऽएष वेदाना गुं रसो यत्साम सर्वेषामेवैनमेतद्वेदाना गुं रसेनाभिषिञ्चति ||

ॐ शान्तिः शान्तिः सुशान्तिर्भवतु | सर्वारिष्ट शान्तिर्भवतु |
ॐ अमृताभिषेकोऽस्तु | अस्त्वमृताभिषेकः ||
ॐ गणेशाम्बिकाभ्यां नमः, अभिषेकं समर्पयामि | अभिषेकोदकं नेत्रे स्पृशेत् |

शुद्धोदकस्नानम् - ॐ शुद्धवालः सर्व शुद्धवालो मणिवालस्तऽआश्विनाः श्येतः श्येताक्षो रुणस्ते रुद्द्राय पशुपतये कर्णायामाऽअवलिप्ता रौद्द्रा नभोरुपाः पार्ज्जन्याः ||
गणेशाम्बिकाभ्यां नमः शुद्धोदकस्नानं समर्पयामि |

वस्त्रम् - 
ॐ युवासुवायाः परिवीत आगात् स उश्रेयान् भवति जायमानः |
तं धीरासः कवय उन्नयन्ति सवाध्यो३ मनसा देवयन्तः ||
गणेशाम्बिकाभ्यां नमः वस्त्रं समर्पयामि |

उपवस्त्रम् - 
ॐ सुजातो ज्योतिषा सहशर्म वरूथमाऽसदत्स्वः |
वासो अग्ने विश्वरूप गुं सं व्ययस्व विभावसो ||
गणेशाम्बिकाभ्यां नमः उपवस्त्रं समर्पयामि |

यज्ञोपवीत -
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् |
आयुष्यमग्रयं प्रतिमुंच शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ||
गणेशाम्बिकाभ्यां नमः यज्ञोपवीतं समर्पयामि |

चन्दन -
ॐ गन्धर्वस्त्वा विश्वावसुः परिदधातु विश्वस्यारिष्टयै यजमानस्य परिधिरस्याग्निरिडऽईडितः ||
गणेशाम्बिकाभ्यां नमः चन्दनं समर्पयामि |

अक्षत -
ॐ अक्षन्नमी मदन्त ह्यवप्रिया अधूषत |
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ||
गणेशाम्बिकाभ्यां नमः अक्षतान् समर्पयामि |


पुष्प - 
ॐ ओषधीःप्रति मोदध्वं पुष्पवतीः प्रसूवरीः |
अश्वा इव सजित्वरीर्वीरुधः परयिष्णवः ||
गणेशाम्बिकाभ्यां नमः पुष्पाणि समर्पयामि |

दूर्वा - 
  ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि |
एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ||
गणेशाम्बिकाभ्यां नमः दुर्वांकुरान् समर्पयामि |

सिन्दूर -
ॐ सिन्धोरिवे प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः |
 घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ||
गणेशाम्बिकाभ्यां नमः सिन्दूरं समर्पयामि |

अबीर-गुलाल - 
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परि बाधमानः |
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा गुं सं परिपातु विश्वतः ||
गणेशाम्बिकाभ्यां नमः नानापरिमल द्रव्याणि समर्पयामि |
 
सुगन्धिद्रव्य -
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ||
गणेशाम्बिकाभ्यां नमः सुगन्धिद्रव्यं समर्पयामि |

  धूप -
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वामः |
देवानामसि वह्नि तम गुं सस्नितमं पप्रितमं जुष्टतमं देवहूत मम् ||
गणेशाम्बिकाभ्यां नमः धूपमाघ्रापयामि |
  
दीप -
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा |
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ||
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ||
गणेशाम्बिकाभ्यां नमः दीपं समर्पयामि |

नैवेद्य - 
ॐ नाभ्या आसीदन्तरिक्ष गुं शीर्ष्णो द्यौः समवर्तत |
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ||
ॐ प्राणाय स्वाहा | ॐ अपानाय स्वाहा | ॐ व्यानाय स्वाहा | ॐ उदानाय स्वाहा | ॐ समानाय स्वाहा | ॐ ब्रह्मणे नमः, मध्ये पानीयं समर्पयामि | उत्तरापोशनं समर्पयामि | हस्त प्रक्षालनं समर्पयामि | मुख प्रक्षालनं समर्पयामि |
गणेशाम्बिकाभ्यां नमः नैवेद्यं समर्पयामि |

करोद्वर्तन -
ॐ सिञ्चन्ति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च |
सुरायै बभ्र्वै मदे किन्त्वो वदति किन्त्वः |
गणेशाम्बिकाभ्यां नमः करोद्वर्तनकं चन्दनं समर्पयामि |

मुखवासार्थे ताम्बूलम् - 
ॐ उतस्मास्यद् द्रवतस्तुरण्यतः पर्णन्नवेरनु वाति प्रगर्द्धिनः | श्येनस्ये वद्ध्रजतोऽअंकसम्परि दधिक्राव्णः सहोर्जातरित्रतः स्वाहा ||
गणेशाम्बिकाभ्यां नमः मुखवासार्थे ताम्बूलं समर्पयामि |

फलम् -
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः |
बृहस्पति प्रसूतास्ता नो मुचन्त्व गुं हसः ||
गणेशाम्बिकाभ्यां नमः फलं समर्पयामि | 

दक्षिणा -
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् |
सदाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम ||
गणेशाम्बिकाभ्यां नमः पर्णमुद्रा दक्षिणां समर्पयामि |

कर्पूरार्तिक्यम् -
ॐ निराजनीं प्रज्वाल्य ज्वालामालिन्यै नमः, गन्धाक्षतपुष्पाणि समर्पयामि |

आरती -
ॐ इद गुं हविः प्रजननं मे अस्तु दशवीर गुं सर्वगण गुं सवस्तये |
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि |
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ||

श्री गणेशजी की आरती    

देवा लम्बोदर गिरजा नन्दना, देवा पूरण करो मनकामना | देवा.....
हे मनभावन, अतिसुख पावन, गौरी के तुम नन्दना | देवा.....
रूणझुण-रूणझुण पैंजनी बाजत चलत मस्त मुचुकन्दना | देवा.....
हे सुखकर्ता, हे दुःखहर्ता, विघ्न विनाशक गजानना | देवा.....
गौरी के तुम पुत्र गजानन, शिवजी के तुम नन्दना | देवा.....
जो प्रभु तुमरी आरती गावे, मिटै विघ्न कटै फन्दना ||देवा.....

गणेशाम्बिकाभ्यां नमः आरार्तिकं समर्पयामि |
जलेन शीतलीकरणं देवाभिवंदनम्,
आशिषो धारणं नीराञ्जलिं ग्रहणं मन्त्रपुष्पाञ्जलिम् |

पुष्पाञ्जलि -
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |
तेह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे |
समे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु |
कुबेराय वैश्रवणाय महाराजाय नमः |

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्यमाधिपत्य मयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्तादा परार्धात् | पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे | आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति |

ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतोबाहुरुत विश्वतस्पात् |
सं बाहुभ्यां धमति सं पतत्रैर्द्यावा भूमी जनयन् देव एकः ||

ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि | तन्नो दन्ती प्रचोदयात् |
ॐ कात्यायन्यै च विद्महे कन्याकुमार्यै धीमहि | तन्नो देवी प्रचोदयात् |
ॐ सांगाभ्यां सपरिवाराभ्यां सायुधाभ्यां सशक्तिकाभ्यां सवाहनाभ्यां गणेशाम्बिकाभ्यां नमः मंत्र पुष्पाञ्जलिं समर्पयामि |

प्रदक्षिणा -
ॐ यानि कानि च पापानि जन्मान्तरकृतानि च |
तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ||
गणेशाम्बिकभ्यां नमः प्रदक्षिणां समर्पयामि |

विशेषार्घ्यं -
ॐ रक्ष रक्षगणाध्यक्ष रक्ष त्रैलोक्य रक्षक |
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ||
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो |
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ||
अनेन सफलार्घ्येण फलदोऽस्तु सदा मम |
गणेशाम्बिकाभ्यां नमः विशेषार्घ्यं समर्पयामि |

प्रार्थना -
ॐ विघ्नेश्वराय वरदाय सुरप्रियाय, लम्बोदराय सकलाय जगद्धिताय |
नागाननाय श्रुति यज्ञ विभूषिताय, गौरी सुताय गणनाथ नमो नमस्ते ||

ॐ त्वं वैष्णवी शक्तिरनन्तवीर्या, विश्वस्य बीजं परमासि माया |
सम्मोहितं देवि समस्तमेतत्, त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ||

गणेश पूजने कर्म यान्न्यूनमधिकं कृतम् |
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ||

गणेशाम्बिकाभ्यां नमः प्रार्थनां समर्पयामि नमस्करोमि |
|| अनेन कृतेन पूजनेन गणेशाम्बिके प्रीयेताम् ||
  
          
  
  

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.