News & Updates 

+91 83491-59668

Type Here to Get Search Results !

मङ्गलाचरणम्

 मङ्गलाचरणम् 

ॐ गजाननं प्रणम्यादौ विष्णुं वाणीं शिवं रविम् |
लिख्यतेऽयं मया ग्रन्थः पूजाकर्म प्रवेशिका ||
ॐ मंगलं भगवान् विष्णुर्मंगलं गरुड़ध्वजः |
मंगलं पुण्डरीकाक्षो मंगलायतनं हरिः ||
ॐ मंगलं भगवान् शुभर्मंगलं वृषभध्वजः |
मंगलं पार्वती नाथो मंगलायतनं हरः ||

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः || 
ॐ पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु |

त्रिराचम्य :- ॐ केशवाय नमः स्वाहा | ॐ नारायणाय नमः स्वाहा | ॐ माधवाय नमः स्वाहा | ॐ गोविन्दाय नमः | हस्तं प्रक्षालनम् ||

कुश पवित्रीधारणम् :- ॐ पवित्रेस्थो वैष्णवव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः | तस्य ते पवित्रपते पवित्र पूतस्य यत्कामः पुने तच्छकेयम् ||

प्राणायाम:- ॐ प्रणवस्य परब्रह्मऋषिः परमात्मा देवता दैवी गायत्री छन्दः सर्वेषां प्राणायामे विनियोगः |

ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् |
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् |
ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ||

स्वस्तिक तिलक:- ॐ स्वस्ति नऽइन्द्रो वृद्ध श्रवाः स्वस्ति नः पूषा विश्ववेदाः | स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ||

यजमान पत्नी :- ॐ तं पत्नीभिरनु गच्छेम देवाः पुत्रैर्ब्भ्रातृ भिरुतवा हिरण्यैः | नाकं गृब्भ्णानाः सुकृतस्य लोके तृतीये पृष्ठेऽअधिरोचने दिवः || 

शिखा-बन्धन - ॐ चिद्रूपिणि ! महामाये दिव्यतेजः समन्विते | तिष्ठ देवि ! शिखामध्ये तेजोवृद्धिं कुरुष्व मे ||

ग्रंथिबन्धन :- ॐ यदाबध्नन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्य मानाः | तन्नऽआबध्नामि शत शारदाया युष्मान् जर दष्टिर्यथा सम् ||

          हस्ते गन्धाक्षतपुष्पाणि गृहीत्वा स्वस्ति वाचनमंत्रान् पठेत् (पठेयुः) :-

हरिः ओम् आनो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतासऽ उद्भिदः | देवानो यथा सदमिद् वृधेऽअसन्नप्रायुवो रक्षितारो दिवे दिवे || देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुं रातिरभिनो निवर्तताम् | देवाना गुं सख्यमुपसेदिमा वयं देवा नऽआयुः प्रतिरन्तु जीवसे || तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् | अर्यमणं वरुण गुं सोममश्विना सरस्वती नः सुभगा मयस्करत् || तन्नो वातो मयो भुवातु भेषजं तन्माता पृथिवी तत्पिता द्यौः | यद् ग्रावाणः सोमसुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् || तमीशानं जगतस्तस्थुषस्पतिं धियञ्निन्वमवसे हूमहे वयम् | पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये || स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः | स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु || पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः | अग्निजिह्वा मनवः सूर चक्षसो विश्वेनो देवा अवसागमन्निह || भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | स्थिरैरंगैस्तुष्टुवा गुं सस्तनूभिर्व्यशेमहि देवहितं यदायुः || शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् | पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायुर्गन्तोः || अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः | वेश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् | द्यौः शान्तिरन्तरिक्ष गुं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः | वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व गुं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ||
यतोयतः समीहसे ततो नो अभयं कुरु |
शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ||

ॐ शान्तिः शान्तिः सुशान्तिर्भवतु, सर्वारिष्ट सकलोपद्रवः शान्तिरस्तु |
ॐ श्रीमन्महागणाधिपतये नमः | ॐ लक्ष्मीनारायणाभ्यां नमः |
ॐ उमामहेश्वराभ्यां नमः | ॐ वाणीहिरण्यगर्भाभ्यां नमः |
ॐ शचिपुरन्दराभ्यां नमः | ॐ मातापितृचरणकमलेभ्यो नमः |
ॐ श्रीमद्गुरुचरणकमलेभ्यो नमः | ॐ इष्टदेवताभ्यो नमः |

ॐ कुलदेवताभ्यो नमः | ॐ ग्रामदेवताभ्यो नमः | ॐ स्थानदेवताभ्यो नमः |
ॐ वास्तुदेवताभ्यो नमः | ॐ सर्वेभ्यो देवेभ्यो नमः | ॐ सर्वेभ्यो ब्रह्मणेभ्यो नमः |

          एतद् कर्म प्रधानायै सांगायै सपरिवारायै सायुधायै सशक्तिकायै सवाहनायै भगवत्यै दुर्गा देव्यै नमः | नमस्करोमि पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रवंतु अस्तु दीर्घमायुः निर्विघ्नमस्तु |

ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः |
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ||

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः |
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ||

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा |
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ||

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् | 
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोंपशान्तये ||

अभीप्सितार्थ सिद्ध्यर्थं पूजितो यः सुरासुरैः |
सर्वविघ्न हरस्तस्मै गणाधिपतये नमः ||

सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके |
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ||

सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् |
येषां हृदिस्थो भगवान् मंगलायतनं हरिः ||

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव |
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ||

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः |
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ||

यत्र योगेश्वरः कृष्णो यत्र पार्थो धुरधरः |
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||

स्मृतेः सकल कल्याणं भाजनं यत्र जायते |
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ||

सर्वेष्वारम्भ कार्येषु त्रयस्त्रिभुवनेश्वराः |
देवा दिशन्तु नः सिद्धिं ब्रह्मेशान जनार्दनाः ||

विनायकं गुरुं भानुं ब्रह्मविष्णु महेश्वरान् |
सरस्वतीं प्रणम्यादौ सर्वकार्यार्थ सिद्धये ||

विश्वेशं माधवं ढुण्ढिं दण्डमापिं च भैरवम् |
वन्दे काशीं गुहां गंगां भवानीं मणिकर्णिकाम् ||

तीक्ष्ण दंष्ट्र महाकाय कल्पान्तदहनोपम |
भैरवाय नमस्तुभ्यमनुज्ञां दातु मर्हसि ||

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

      

   

  

 





एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.