News & Updates 

+91 83491-59668

Type Here to Get Search Results !

अथ संक्षिप्त नूतन यज्ञोपवीत धारण प्रयोगः

 अथ संक्षिप्त नूतन यज्ञोपवीत धारण प्रयोगः 

            अथ विधिः - स्नात्वा शुद्धवस्त्रं परिधाय आसने उपविश्य तिलक-भस्मधारणं शिखाबन्धनं च कृत्वा आचमनं प्राणायामं च कृत्वा संकल्पं कुर्यात् | संकल्पः - अद्य पूर्वोच्चारित0 ..........मासे ..........पक्षे ..........तिथौ ..........वासरे एवं गृह गणविषेशेण विशिष्टायां शुभपुण्यतिथौ मम अमुकगोत्रोत्पन्नस्य अमुकशर्मणः (वर्मणः, गुप्तस्य वा) श्रीतस्मार्त-कर्मानुष्ठान सिद्धयर्थं अमुक कर्मांगत्वेन नवीनयज्ञोपवीत धारणं अहं करिष्ये |

           यज्ञोपवीत प्रक्षालनम् - ॐ आपो हिष्ठा मयो भुवस्तानऽऊर्जे दधातन || महे रणाय चाक्षसे || योवः शिवतमो रसस्तस्यभाजयतेहनः || उशतीरिवमातरः || तस्म्माऽअरङ्गमामवोयस्य क्षयाय जिन्न्वाथ || आपोजनयथाचनः || ततो यज्ञोपवीतं करसंपुटं कृत्वा दशवारं गायत्री मंत्रेण अभिमंत्रयेत् - ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि || धियो यो नः प्रचोदयात् || ततस्तन्तु-ग्रंथिषु देवता-आवाहानम्-

  1. प्रथमतन्तौ ॐ काराय नमः, ॐ कारं आवाहयामि स्थापयामि |
  2. द्वितीयतन्तौ ॐ अग्नये नमः, ॐ अग्नि आवाहयामि स्थापयामि |
  3. तृतीयतन्तौ ॐ नागेभ्यो नमः, ॐ नागान् आवाहयामि स्थापयामि |
  4. चतुर्थतन्तौ ॐ सोमाय नमः, ॐ सोमाम् आवाहयामि स्थापयामि |
  5. पंचमतन्तौ ॐ पितृभ्यो नमः, ॐ पितृन् आवाहयामि स्थापयामि |
  6. षष्ठतन्तौ ॐ प्रजापतये नमः, ॐ प्रजापतिम् आवाहयामि स्थापयामि |
  7.  सप्तमतन्तौ ॐ अनिलाय नमः, ॐ अनिलम् आवाहयामि स्थापयामि |
  8. अष्टमतन्तौ ॐ यमाय नमः, ॐ यमम् आवाहयामि स्थापयामि |
  9. नवमतन्तौ ॐ विश्वेभ्यो देवेभ्यो नमः, ॐ विश्वान् देवान् आवाहयामि स्थापयामि |

            यज्ञोपवीतग्रंथि मध्ये ब्रह्मविष्णुरुद्रेभ्यो नमः, ब्रह्मविष्णुरुद्रान् आवाहयामि | आवाहितदेवताः सुप्रतिष्ठिताः वरदाः भवत | पंचोपचारैः मानसोपचारैः वा पूजनम् |

ध्यानम् - प्रजापतेर्यत् सहजं पवित्रं कार्पास सूत्रोद् भवब्रह्म सूत्रम् | 

ब्रह्मत्व सिद्धयै च यशः प्रकाशं जपस्य सिद्धिं कुरु ब्रह्म सूत्रम् ||

सूर्याय दर्शयेत् - ॐ तच्च्क्षुद्र्देवहितम्पुरस्ताच्च्छुक्क्रमुच्च्रत् | पश्येम शरदः शतञ्जीवेम शरदः शत गुं शृणुयाम शरदः शतं प्रब्ब्रवाम शरदः शतमदीनाः स्यामशरदः शतम्भूयश्च्च शरदः शतात् ||

यज्ञोपवीतधारणम् - ॐ यज्ञोपवीतमिति मंत्रस्य परमेष्ठी ऋषिः लिंगोक्ता देवता त्रिष्टुप् छन्दः यज्ञोपवीत धारणे विनियोगः |

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् |
आयुष्मग्रयं प्रतिमुंच शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ||
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीते नोपनह्मामि ||
यज्ञोपवीतं धारयित्वा आचमनं कुर्यात् |      

 

अथजीर्णयज्ञोपवीतत्यागः - ॐ एतावद्दिनपर्यन्तं ब्रह्म त्वं धारितं मया | जीर्णत्वात् त्वत्परित्यागो गच्छ सूत्र यथासुखम् ||


शुद्धभूमौ निधाय यथाशक्ति गायत्रीजपं कुर्यात् |
अर्पणम्-अनेन गायत्रीजपकर्मणा श्रीसवितादेवता प्रियताम् |


पुनः - अनेन नूतनयज्ञोपवीत धारणाख्येन कर्मणा मम श्रौतर्स्मातकर्मानुष्ठान सिद्धिद्वारा श्रीभगवान् परमेश्वरः प्रीयतां न मम ||


|| इति संक्षिप्त नूतन यज्ञोपवीत धारणविधिः ||
              

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.