News & Updates 

+91 83491-59668

Type Here to Get Search Results !

पुण्याहवाचन कलश पूजन

 पुण्याहवाचन कलश पूजन 

स्वपुरतः शुद्धायां भूमौ पंचवर्णैः तन्दुलैः अष्टदलं कर्तव्यम् ||

भूमिं स्पृशेत् - ॐ मही द्यौःपृथिवी चनऽइमँयज्ञम्मिमिक्षताम् | पितृतान्नो भरीमभिः ||

धान्यप्रक्षेप - ॐ ओषधयःसमवदन्त सोमेन सह राज्ञा | यस्मै कृणोति ब्राह्मणस्त गुं राजन्पारयामसि ||

कलशं स्थापयेत् - ॐ आजिघ्र कलशं मह्या त्वा विशन्त्विन्दवः | पुनरूर्जा निवर्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ||

कलशे जलपूरणम् - ॐ वरुणस्योत्तम्भनमसि वरुणस्य सकम्भसर्जनी स्थो वरुणस्य ऋतसदन्न्यसि वरुणस्य ऋतसदनमसिवरुणस्य ऋतसदनमासीद ||

गन्धप्रक्षेपः - ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः | त्वामोषधे सोमोराजा विद्वान् यक्ष्मादमुच्यत ||

सर्वौषधीप्रक्षेपः - ॐ याऽओषधिः पूर्वाजाता देवेभ्यस्त्रियुगं पुरा | मनैनु बभ्रूणामह गुं शतं धामानिसप्तच ||

दूर्वाप्रक्षेपः - ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि | एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ||

पञ्चपल्लवप्रक्षेपः - ॐ अश्वत्थेवो निषदनं पर्णेवो वसतिष्कृता | गोभाज इत्किलासथ यत्सनवथ पूरुषम् ||

सप्तमृदांप्रक्षेपः - ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी | यच्छा नः शर्म सप्रथाः ||

पूगीफलप्रेक्षप: - ॐ याः फलिनीर्या अफला अपुष्पायाश्च पुष्पिणीः | बृहस्पति प्रसूतास्तानो मुचन्त्व गुं हसः ||

पञ्चरत्नप्रेक्षप: - ॐ परि वाजपतिः कविरग्निर्हव्यान्न्यक्रमीत् | दधद्रत्नानि दाशुषे ||

हिरण्यप्रक्षेप: - ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् | सदाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम ||

वस्त्रं वेष्टयेत् - ॐ सुजातो ज्योतिषा सहशर्म वरूथमाऽसदत्स्वः | वासो अग्ने विश्वरूप गुं सं व्ययस्व विभावसो ||

पूर्णपात्रं न्यसेत् - ॐ पूर्णादर्वि परापत सुपूर्णा पुनरा पत | वस्नेव विक्रीणावहा इषमूर्ज गुं शतक्रतो ||

श्रीफलं न्यसेत् - ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् | इष्णन्निषाणामुं म इषाण सर्वलोकंमइषाण ||

आवाहनमत् - ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः | अहेडमानो वरुणे हवोद्ध्युरुश गुं समानऽआयुः प्रमोषीः ||   

अस्मिन् कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिकम् आवाहयामि | 
ॐ अपां पतये वरुणाय नमः | पञ्चोपचारैः सम्पूज्य |

ॐ कला कला हि देवानां दानवानां कला कलाः |
संगृह्य निर्मितो यस्मात् कलशस्तेन कथ्यते ||

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः |
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ||

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा |
अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ||

कावेरी कृष्णवेणा च गंगा चैव महानदी |
तापी गोदावरी चैव माहेन्द्री नर्मदा तथा ||

नादाश्च विविध जाता नद्यःसर्वास्तथाऽपराः |
पृथिव्यां यानि तीर्थानि कलशस्थाननि तानि वै ||

सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः |
आयान्तु मम शान्त्यर्थं दुरित क्षय कारकाः ||

ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः |
अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः ||

अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा |
आयान्तु देव पूजार्थं दुरित क्षय कारकाः ||

ॐ मनो जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्ठं यज्ञ गुं समिमंदधातु | विश्वेदेवासऽइहमादयन्तामों३ प्रतिष्ठ ||

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च |
अस्यै देवत्वमर्चायै मामहेति च कश्चन ||

कलशे वरुणाद्यावाहित देवताः सुप्रतिष्ठिता वरदा भवन्तु वरुणाद्यावाहित देवताभ्यो नमः | कलशस्य चतुर्दिक्षु चतुर्वेदान्पूज्यते -

पूर्वे - ऋग्वेदाय नमः | दक्षिणे - यजुर्वेदाय नमः | पश्चिमे - सामवेदाय नमः | उत्तरे - अथर्ववेदाय नमः | कलशमध्ये अपाम्पतये वरुणाय नमः |

षोडशोपचारैः पूजनं कुर्यात् - आसनार्थेऽक्षतान् समर्पयामि | पादयोः पाद्यं समर्पयामि | हस्तयोः अर्घ्यं समर्पयामि | आचमनं समर्पयामि | पञ्चामृतस्नानं समर्पयामि | शुद्धोदकस्नानं समर्पयामि | स्नानांगाचमनं समर्पयामि | वस्त्रं समर्पयामि | आचमनं समर्पयामि | यज्ञोपवीतं समर्पयामि | आचमनं समर्पयामि | उपवस्त्रं समर्पयामि | गन्धं समर्पयामि | अक्षतान् समर्पयामि | पुष्पं समर्पयामि | नानापरिमलद्रव्याणि समर्पयामि | धूपमाघ्रापयामि | दीपं दर्शयामि | हस्तप्रक्षालनम् | नैवेद्यं समर्पयामि | आचमनीयं समर्पयामि | मध्ये पानीयम् उत्तरापोशनं च समर्पयामि | ताम्बूलं समर्पयामि | पूगीफलं समर्पयामि | कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि | मंत्रपुष्पाञ्जलिं समर्पयामि | अनया पूजया वरुणाद्यावाहितदेवताः प्रीयन्तां न मम | 

प्रार्थना - 
देव दानव संवादे मध्य माने महोदधौ | 
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् ||

त्वत्तोये सर्व तीर्थानि देवाः सर्वे त्वयि स्थिताः |
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ||

शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः |
आदित्या वसवा रुद्रा विश्वेदेवाः सपैतृकाः ||

त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः |
त्वत्प्रसादादि मां पूजां कर्तुमीहे जलोद्भव ||
सान्निध्यं कुरु में देव प्रसन्नो भव सर्वदा ||

नमो नमस्ते स्फटिक प्रभाय सुश्वेत हाराय सुमंगलाय |
सुपाश हस्ताय झषासनाय जलाधि नाथाय नमोनमस्ते ||

पाश पाणे नमस्तुभ्यं पद्मिनी जीवनायकम् |
पुण्याह वाचनं यावत्तावत्त्वं सन्निधो भव ||

अनेन कृतेन पूजनेन कलशे वरुणाद्यावाहित देवताः प्रीयन्तां न मम |

अवनि कृत जानु मण्डलः कमल मुकुल सदृशमञ्जलिं शिरस्याधायाऽनन्तरं वामान्वारब्ध दक्षिणेन पाणिना सवर्णपूर्ण कलशं धारयित्वा आशिषः प्रर्थयेत् |

यजमान - 
ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णु पदानि च |
तेनायुः प्रमाणेन पुष्यं पुण्याहं दीर्घमायुरस्तु ||

विप्रा - 
अस्तु दीर्घमायुः | (तीन बार एसा कहे |)
ॐ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः |
अतो धर्माणि धारयन् ||

तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्त्वति भवन्तो ब्रुवन्तु ||
पुण्यं पुण्याहं दीर्घमायूरस्तु || (एवं द्विरपरं शिरसि भूमौ निधाय)

यजमानः- 
ॐ अपां मध्ये स्थित देवाः सर्वमप्सु प्रतिष्ठितम् |
ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः ||

ततो ब्राह्मणानो हस्ते - ॐ शिवा आपः सन्तु | इति जलम् |

ब्रह्मणा :- सन्तु शिवा आपः | एवं सर्वत्र वचनोत्तरं दद्युः, 

यजमान :- 
ॐ लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे |
सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ||

सौमनस्यमस्तु | इति पुष्पम् -

ब्राह्मणा :- अस्तु सौमनस्यम् |

यजमान :- 
अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम् | 
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम | अक्षतं चारिष्टं चास्तु इति अक्षतान् 


ब्राह्मणा:- अस्तु अक्षतं अरिष्टं च | यजमान:- गन्धाः पान्तु | इति गन्धम् | ब्राह्मणाः- सौमंगल्यं चास्तु | यजमान:- अक्षताः पान्तु | ब्राह्मणाः- आयुष्यमस्तु | यजमान:- पुष्पाणि पान्तु | ब्राह्मणा:- सौश्रियमस्तु | यजमान:- सफलताम्बूलानि पान्तु | ब्राह्मणा:- ऐश्वर्यमस्तु | यजमान:- दक्षिणाः पान्तु | ब्राह्मणा:- बहुदेयं चास्तु | यजमान:- आपः पान्तु | ब्राह्मणा:- स्वर्चितमस्तु | यजमान:- दीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु | 

ब्राह्मणा:- तथाऽस्तु |

यजमान:- यं कृत्वा सर्व वेद यज्ञ क्रिया करण कर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते, तमहमोंकारमादिं कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनु ज्ञातं पुण्यं पुण्याहं वाचयिष्ये |

ब्राह्मणा:- वाच्यताम् |

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षमिर्यजत्राः |
स्थिरैरंगैस्तुष्टुवा गुं सस्तनूभिर्व्यशेमहि देवहितं यदायुः ||

द्रवणोदाः पिपीषति जुहोत प्र च तिष्ठत | नेष्ट्रा दृतु भिरिष्यत ||1|| सविता त्वा सवानो गुं सुवताग्निर्गृह पतीना गुं सोमो वनस्पतीनाम् | बृहस्पतिर्वाच इन्द्रो ज्यैष्ठयाय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ||2|| न तद्रक्षा गुं सि न पिशाचास्तरन्ति देवानामोजः प्रथमज गुं ह्येतत् | यो बिभर्ति दाक्षायण गुं हिरण्य गुं स देवेषु कृणुते दीर्घमायुः स  मनुष्येषु कृणुते दीर्घमायुः ||3|| उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे | उग्र गुं शर्म महिश्श्रवः ||4|| उपास्मै गायता नरः पवमानायेन्दवे | अभि देवाँ२ इयक्षते ||5|| 

यजमान:- व्रत जप नियम तपः स्वाध्याय क्रतु शम दम दया दान विशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम् |

ब्राह्मणा:- समाहितमनसः स्मः | यजमान:- प्रसीदन्तु भवन्तः | ब्राह्मणा:- प्रसन्नाः स्मः |

यजमान:- (बाये हाथ में चावल लेकर दाए हाथ से कलश पर छोड़े) - 
ॐ शान्तिरस्तु | ॐ पुष्टिरस्तु | ॐ तुष्टिरस्तु | ॐ वृद्धिरस्तु | ॐ अविघ्नमस्तु | ॐ आयुष्यमस्तु | ॐ आरोग्यमस्तु | ॐ शिवमस्तु | ॐ शिवं कर्मास्तु | ॐ कर्म समृद्धिरस्तु | ॐ धर्म समृद्धिरस्तु | ॐ वेद समृद्धिरस्तु | ॐ शास्त्र समृद्धिरस्तु | ॐ धनधान्य समृद्धिरस्तु | ॐ पुत्रपौत्र समृद्धिरस्तु | ॐ इष्टसम्पदमस्तु | 

दूसरे पात्र में - ॐ अरिष्टनिरसनमस्तु | ॐ यत्पापं रोगमशुभकल्याणं तद् दूरे प्रतिहतमस्तु |

पुनः पहले पात्र में - ॐ यच्छ्रेयस्तदस्तु | ॐ उत्तरे कर्मणि निर्विघ्नमस्तु | ॐ उत्तरोत्तर महर हरभि वृद्धिरस्तु | ॐ उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् | ॐ तिथि करण मुहूर्त नक्षत्र ग्रह लग्न सम्पदस्तु ||

पात्रे उदकसेकः || ॐ तिथि करण मुहूर्त नक्षत्र ग्रह लग्नाधिदेवताः प्रीयन्ताम् | ॐ तिथिकरणे समुहुर्ते सनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम् | ॐ दुर्गापाञ्चाल्यौ प्रीयेताम् | ॐ अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् | ॐ इन्द्रपुरोगा मरूद्गणाः प्रीयन्ताम् | ॐ वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् | ॐ माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम् | ॐ अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् | ॐ ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् | ॐ विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम् | ॐ ब्रह्म च ब्रह्मणाश्च प्रीयन्ताम् | ॐ श्रीसरस्वत्यौ प्रीयेताम् | ॐ श्रद्धामेधे प्रीयेताम् | ॐ भगवती ऋद्धिकरी प्रीयताम् | ॐ भगवती वृद्धिकरी प्रीयताम् | ॐ भगवती पुष्टिकरी प्रीयताम् | ॐ भगवती तुष्टिकरी प्रीयताम् | ॐ भगवन्ती विघ्नविनायकौ प्रीयेताम् | ॐ सर्वाः कुलदेवताः प्रीयन्ताम् | ॐ सर्वा ग्रामदेवताः प्रीयन्ताम् | ॐ सर्वा इष्टदेवताः प्रीयन्ताम् |

दूसरे पात्र में :- ॐ हताश्च ब्रह्मद्विषः | ॐ हताश्च परिपन्थिनः | ॐ हताश्च विघ्नकर्तारः | ॐ शत्रवः पराभवं यान्तु | ॐ शाम्यन्तु घोराणि | ॐ शाम्यन्तु पापानि | ॐ शाम्यन्त्वीतयः | ॐ शाम्यन्तूपद्रवाः ||

पुनः पहले पात्र में :- ॐ शुभानि वर्धन्ताम् | ॐ शिवा आपः सन्तु | ॐ शिवा ऋतवः सन्तु | ॐ शिवा ओषधयः सन्तु | ॐ शिवा वनस्पतयः सन्तु | ॐ शिवा अतिथयः सन्तु | ॐ शिवा अग्नयः सन्तु | ॐ शिवा आहुतयः सन्तु | ॐ अहोरात्रे शिवे स्याताम् | ॐ निकामे निकामे नः पुर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् |      

यजमान :- ॐ शुक्राङ्गारक-बुध-बृहस्पति-शनैश्चर-राहु-केतु-सोमसहितादित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् |

ॐ भगवान् नारायणः प्रीयताम् | ॐ भगवान् पर्जन्यः प्रीयताम् | ॐ भगवान् स्वामी महासेनः प्रीयताम् | ॐ पुरोऽनुवाक्यया यत्पुण्यं तदस्तु | ॐ वषट्कारेण यत्पुण्यं तदस्तु | ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु | 
एतत् कल्याण युक्तं पुण्यं पुण्याहं वाचयिष्ये | वाच्यताम् |

यजमान :- 1 
ॐ ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादन कारकम् |
वेद वृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ||      

भो ब्राह्मणाः ! मह्यं सकुतुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः पुण्याहं भवन्तो ब्रवन्तु || 

ब्राह्मणा :- ॐ अस्तु पुण्याहम् | ॐ अस्तु पुण्याहम् | ॐ अस्तु पुण्याहम् | 
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः |
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ||

यजमान :- 2   
ॐ पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् |
ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रवन्तु नः ||

भो ब्राह्मणाः ! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः कल्याणं भवन्तो ब्रवन्तु ||

ब्राह्मणाः- ॐ अस्तु कल्याणम् | ॐ अस्तु कल्याणम् | ॐ अस्तु कल्याणम् | 
ॐ यथेमां वाचं कल्याणी मावदानि जनेभ्यः | ब्रह्म राजन्याभ्या गुं शूद्राय चार्याय च स्वाय चारणाय च | प्रियो देवानां दक्षिणायै दातुरिह भूया समयं मे कामः समृद्ध्यतामुप मादो नमतु ||

यजमान :- 3 
ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता |
सम्पूर्णा सुप्रभावा च तां च ऋद्धिं ब्रवन्तु नः ||

भो ब्रह्माना:! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः ऋद्धिं भवन्तो ब्रवन्तु ||

ब्राह्मणाः- ॐ कर्म ऋद्धयताम् | ॐ कर्म ऋद्धयताम् | ॐ कर्म ऋद्धयताम् |
ॐ सत्रस्य ऋद्धिरस्य गन्म ज्योति स्मृता अभूम |
दिवं पृथिव्या अध्याऽरुहामा विदाम देवान्त्स्वर्ज्योतिः ||

यजमान :- 4 
ॐ स्वस्तिस्तु याऽविनाशाख्या पुण्य कल्याण वृद्धिदा |
विनायक प्रिय नित्यं तां च स्वस्तिं ब्रवन्तु नः ||

भो ब्रह्मणा:! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः स्वस्तिं भवन्तो ब्रवन्तु ||

ब्राह्मणाः-  ॐ आयुष्मते स्वस्ति | ॐ आयुष्मते स्वस्ति | ॐ आयुष्मते स्वस्ति |
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः |
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु ||

यजमान :- 5 
ॐ समुद्र मथनाज्जाता जगदानन्द कारिका |
हरिप्रिया च मांगल्या तां श्रियं च ब्रवन्तु नः ||

भो ब्रह्मणा:! मह्यं सकुटुम्बिने महाजनान् नमस्कुर्वाणाय आशीर्वचन मपेक्षमाणाय मया क्रियमाणस्य अमुक कर्मणः श्रीरस्तु इति भवन्तो ब्रवन्तु ||

ब्रह्मणा :- ॐ अस्तु श्रीः | ॐ अस्तु श्रीः | ॐ अस्तु श्रीः |
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् |
इष्णन्निषाणामुं म इषाण सर्वलोकं म इषाण ||

यजमान :- 6 
ॐ मृकण्ड सूनोरायुर्यद् ध्रुवलोमशयोस्तथा |
आयुषा तेन संयुक्ता जीवेम शरदः शतम् ||

ब्रह्मणा:- ॐ शतं जीवन्तु भवन्तः | 
ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् |
पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायुर्गन्तोः ||

यजमान :- 7 
ॐ शिवगौरी विवाहे या या श्रीरामे नृपात्मजे |
धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मानि ||

ब्राह्मणाः- ॐ अस्तु श्रीः |
ॐ मनसः काममाकूतिं वाचः सत्यमशीय |
पशूना गुं रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ||

यजमान :- 8 
ॐ प्रजा प्रतिर्लोका पालो धाता ब्रह्मा च देवराट् |
भगवाञ्छाश्वतो नित्यं नो वै रक्षन्तु सर्वतः ||

ब्राह्मणाः- ॐ भगवान् प्रजापतिः प्रीयताम् |
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव |
यत्कामास्ते जुहुमस्तन्नो अस्तु वय गुं स्याम पतयो रयीणाम् ||

यजमान :- 9 
आयुष्मते स्वस्तिमते यजमानाय दाशुषे |
श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ||

ब्राह्मणाः- ॐ आयुष्मते स्वस्ति |

ॐ प्रति पन्थामपद्महि स्वस्ति गामनेहसम् |
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ||

ॐ पुण्याह वाचन समृद्धिरस्तु || ॐ अस्तु पुण्याह वाचन समृद्धिः || - अस्मिन् पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्ट ब्राह्मणानां वचनात् श्रीमहागणपति प्रसादाच्च परिपूर्णोऽस्तु | संकल्प-कृतस्य पुण्याहवाचन कर्मणः समृद्धियर्थं पुण्याह वाचकेभ्यो ब्राह्मणेभ्यो इमां दक्षिणां विभज्य दातुमहमुत्सृजे | ॐ स्वस्ति |

अथाऽभिषेकः- अभिषेके पत्नी वामतः | एकस्मिन् पात्रे कलशोदकं गृहीत्वा - अविधुराश्चत्वारो ब्राह्मणाः दूर्वा-आम्र पल्लवैः सकुतुम्बं यजमानमभिषिञ्चेयुः |
ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः | पयस्वतीः प्रदिशः सन्तु मह्यम् || पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः | सरस्वती तु पंचधा सो देशेऽभवत्सरित् || वरुणस्योत्तम्भनमसि वरुणस्य सकम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसिवरुणस्य ऋतसदनमासीद || पुनन्तु मा देवजनाः पुनन्तु मनसा धियः | पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा || द्यौः शान्तिरन्तरिक्ष गुं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः | वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व गुं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि || ॐ सर्वेषां वाऽएष वेदाना गुं रसो यत्साम सर्वेषामेवैनमेतद्वेदाना गुं रसेनाभिषिञ्चति || ॐ शान्तिः शान्तिः सुशान्तिर्भवतु | सर्वारिष्ट शान्तिर्भवतु |

ॐ अमृताभिषेकोऽस्तु | अस्तु अमृताभिषेकः |

स्वस्थाने उपविश्य हस्ते जलं गृहीत्वा - अभिषेक कर्तृकेभ्यो ब्राह्मणेभ्यो यथोत्साहं दक्षिणां दास्ये तेन श्रीकर्माधीशः प्रीयताम् | 

|| अनेन पुण्याहवाचनेन कर्मणः कर्मांग देवताः प्रीयन्ताम् ||

             
     
                       

  

  



एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.